This page has been proofread, but needs to be validated.
4
Nala. I.

अब्रवीत् तत्र तं हंसं त्वम् अप्य् एवं नले वद ॥३१॥
तथेत्य् उक्त्वाण्डजः कन्यां विदर्भस्य विशां पते ।
पुनर् आगम्य निषधान् नले सर्वं न्यवेदयत्। ॥३२॥

॥ इति नलोपाख्याने प्रथमः सर्गः ॥१॥




5

बृहदश्व उवाच ।


दमयन्ती तु तच् छ्रुत्वा वचो हंसस्य भारत ।
ततः प्रभृति न स्वस्था नलं प्रति बभूव सा ॥१॥
ततश् चिन्तापरा दीना विवर्णवदना कृशा ।
बभूव दमयन्ती तु निःश्वासपरमा तदा ॥२॥
10ऊर्ध्वदृष्टिर् ध्यानपरा बभूवोन्मत्तदर्शना ।
पाण्डुवर्णा क्षणेनाथ इच्छयाविष्टचेतना ॥३॥
न शय्यासनभोगेषु रतिं विन्दति कर्हि चित् ।
न नक्तं न दिवा शेते हा हेति रुदती पुनः ॥४॥
ततो विदर्भपतये दमयन्त्याः सखीजनः ।
15न्यवेदयत् ताम् अस्वस्थां दमयन्तीं नरेश्वरे ॥५॥
तच् छ्रुत्वा नृपतिर् भीमो दमयन्तीसखीगणात् ।
चिन्तयामास तत् कार्यं सुमहत् स्वां सुतां प्रति ॥६॥
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् ।
अपश्यद् आत्मना कार्यं दमयन्त्याः स्वयंवरम् ॥७॥
20स संनिमन्तयामास महीपालान् विशां पतिः ।
अनुभूयताम् अयं वीराः स्वयंवर इति प्रभो ॥८॥