This page needs to be proofread.

कथं यह प्रतिश्रुत्य देवतानां विशेषतः।
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥१६॥
एष धर्मो यदि स्वार्थो ममापि भविता ततः।
एवं स्वार्थ करिष्यामि तथा भने विधीयताम् ॥१७॥
5ततो बाष्पाकुलां वाचं दमयन्ती शुचिस्मिता।
प्रत्याहरन्ती शनकैनेलं राजानमब्रवीत् ॥१८॥
उपायोऽयं मया दृष्टो निरपायो नरेश्वर।
येन दोषो न भविता तव राजन्कथं चन ॥१९॥
त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः।
10आयान्तु सहिताः सर्वे मम यब स्वयंवरः ॥२०॥
ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर।
वरयिष्ये नरव्याघ्र नैवं दोषो भविथति ॥२१॥
एवमुक्तस्तु वैदया नलो राजा विशं पते ।
आजगाम पुनस्तब यच देवाः समागताः ॥२२॥
15तमपश्यंस्तथायान्तं लोकपाला महेश्वराः।
दृष्ट्वा चैनं ततो ऽपृच्छन्वृत्तान्तं सर्वमेव तम् ॥२३॥
कञ्चिद्दष्टा त्वया राजन्दमयन्ती शुचिस्मिता।
किमब्रवीच नः सर्वान्वद भूमिपते ऽनघ ॥२४॥

नल उवाच ।

20भवद्भिरहमादिष्टो दमयन्या निवेशनम् ।

प्रविष्टः सुमहाकक्षं दण्डिभिः स्थविरैर्वृतम् ॥२५॥
प्रविशन्तं च मां तत्र न कश्चिदृष्टवान्नरः।
सते तां पार्थिवसुतां भवतामेव तेजसा ॥ २६ ॥