This page needs to be proofread.

विवाहं कारयामास दमयन्या नलस्य च ॥४०॥
उप तत्र यथाकामं नैषधो द्विपदां वरः ।
भीमेन समनुज्ञातो जगाम नगरं स्वकम् ॥४१॥
अतीव मुदितो राजा भ्राजमानों ऽशुमानिव ।
5अरञ्जयत्यजा वीरो धर्मेण परिपालयन ॥४२॥
ईजे चायश्वमेधेन ययातिरिव नाहुषः ।
अन्यैश्च बहुभिधीमान्क्रतुभिश्चाप्तदक्षिणैः ॥४३॥
पुनश्च रमणीयेषु वनेषूपवनेषु च ।
दमयन्या सह नलो विजहारामरोपमः ॥४४॥
10जनयामास च नलो दमयन्यां महामनाः ।
इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्यकाम् ॥४५॥
एवं स यजमानश्च विहरंश्च नराधिपः।
रक्ष वसुसंपूर्णों वसुधां वसुधाधिपः ॥४६॥
॥ इति नलोपाख्याने पञ्चमः सर्गः ॥५॥




15

॥ अथ हितोपदेशः ॥
II.

श्रुतो हितोपदेशो ऽयं पाटवं संस्कृतोक्तिषु ।

वाचां सर्वत्र वैचियं नीतिविद्यां ददाति च ॥
अजरामरवत्याज्ञो विद्यामर्थ च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥