This page needs to be proofread.

एवम उक्तस तु शक्रेण नारदः प्रत्यभाषत ।
शृणु मे मघवन येन न दृश्यन्ते महीक्षितः ॥१९॥
विदर्भराज्ञो दुहिता दमयन्तीति विश्रुता।
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ॥२०॥
5तस्याः स्वयंवरः शक्र भविता नचिराद् इव ।
तब गच्छन्ति राजानो राजपुत्राश् च सर्वशः ॥२१॥
तां रनभूतां लोकस्य प्रार्थयन्तो महीक्षितः।
कान्ति स्म विशेषेण वलवृषनिषूदन ॥ २२ ॥
एतस्मिन् कथ्यमाने तु लोकपालाश् च सानिकाः।
10आजग्मुर देवराजस्य समीपम् अमरोतमाः ॥२३॥
ततस् ते शुश्रुवुः सर्वे नारदस्य वचो महत ।
श्रुत्वैव चाब्रुवन दृष्टा गच्छामो वयम् अण् उत ॥ २४ ॥
ततः सर्वे महाराज सगणाः सहवाहनाः।
विदर्भान अभिजग्मुस ते यतः सर्वे महीक्षितः ॥ २५ ॥
15नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् ।
अभ्यगच्छद् अदीनात्मा दमयन्तीम अनुव्रतः ॥२६॥
अथ देवाः पथि नलं ददृशुर् भूतले स्थितम् ।
साक्षाद् इव स्थितं मूया मन्मथं रूपसंपदा ॥ २७ ॥
तं दृष्ट्वा लोकपालास ते भ्राजमानं यथा रविम् ।
20तस्थुर् विगतसंकल्पा विस्मिता रूपसंपदा ॥ २८ ॥
ततोऽन्तरिक्ष विष्टभ्य विमानानि दिवौकसः।
अब्रुवन् नैषधं राजन्न अवतीर्य नभस्तलात् ॥ २९ ॥
भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् ।