This page needs to be proofread.

अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ॥३०॥

॥ इति नलोपाख्याने द्वितीयः सर्गः ॥२॥



बृहदश्व उवाच ।

तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत ।

5अर्थतान् परिपप्रछ कृताञ्जलिर् उपस्थितः ॥१॥
के वै भवन्तः कश् चासौ यस्याहं दूत ईसितः ।
किं च तद् वो मया कार्य कथयध्वं यथातथम् ॥२॥
एवम उक्ते नैषधेन मघवान अभ्यभाषत ।
अमरान वै निबोधासान दमयन्यर्थम् आगतान ॥३॥
10 अहम् इन्द्रोऽयम् अग्निश्च तथैवायम् अपां पतिः।
शरीरान्तकरो नृणां यमो ऽयम् अपि पार्थिव ॥४॥
त्वं वै समागतान अस्मान दमयन्यै निवेदय ।
लोकपाला महेन्द्राद्याः समायान्ति दिदृक्षवः ॥५॥
प्राप्तुम इच्छन्ति देवास् त्वां शको निर् वरुणो यमः।
15 तेषाम अन्यतमं देवं पतित्वे वरयस्व ह ॥६॥
एवम् उक्तः स शक्रेण नलः प्राञ्जलिर् अब्रवीत् ।
एकार्थ समुपेतं मां न प्रेषयितुम अर्हथ ॥७॥
कथं नु जातसंकल्पः स्त्रियम् उत्सहते पुमान् ।
परार्थम् ईदृशं वक्तुं तत् क्षमन्तु महेश्वराः ॥६॥

20

देवा ऊचुः।

करिष्य इति संश्रुत्य पूर्वम् असासु नैषध ।