This page needs to be proofread.

न करिष्यसि कस्मात त्वं व्रज नैषध माचिरम् ॥९॥

बृहदश्व उवाच।

एवम् उक्तः स देवैस् तैर् नैषधः पुनर् अब्रवीत् ।

सुरक्षितानि वेश्मानि प्रवेष्टुं कथम् उत्सहे ॥१०॥
5 प्रवेक्ष्यसीति तं शक्रः पुनर एवाभ्यभाषत ।
जगाम स तथेत्य उक्त्वा दमयन्या निवेशनम् ॥११॥
दर्श तत्र वैदभी सखीगणसमावृताम् ।
देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ॥१२॥
अतीव सुकुमाराङ्गी तनुमध्यां सुलोचनाम् ।
10आक्षिपन्तीम् इव प्रभां शशिनः स्वेन तेजसा ॥१३॥
तस्य दृष्ट्वैव ववृधे कामस तां चारुहासिनीम् ।
सत्यं चिकीर्षमाणम् तु धारयामास हृच्छयम् ॥१४॥
ततस् ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः।
आसनेभ्यः समुत्येनुस् तेजसा तस्य धर्षिताः ॥१५॥
15 प्रशशंसुश् च सुप्रीता नलं ता विस्मयान्विताः ।
न चैनम् अभ्यभाषन्त मनोभिस त्व अभ्यपूजयन् ॥१६॥
अहो रूपम् अहो कान्तिर् अहो धैर्य महात्मनः ।
को ऽयं देवो ऽथ वा यक्षो गन्धर्वो वा भविथति ॥१७॥
न तास तं शक्नुवन्ति स्म व्याहर्तुम् अपि किं चन।
20 तेजसा धर्षितास् तस्य लज्जावत्यो वराङ्गनाः ॥१॥
अथैनं स्मयमानं तु स्मितपूर्वाभिभाषिणी।
दमयन्ती नलं वीरम् अभ्यभाषत विस्मिता ॥१९॥
कस् त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन ।