प्राप्तो ऽस्य अमरवद् वीर ज्ञातुम इच्छामि ते ऽनघ ॥२०॥
कथम् आगमनं चेह कथं चासि न लक्षितः।
सुरक्षितं हि मे वेश्म राजा चैवोयशासनः ॥२१॥
एवम् उक्तस तु वैदया नलस् तां प्रत्युवाच ह ।
5नलं मां विद्धि कल्याणि देवदूतम् इहागतम् ॥२२॥
देवाम् त्वां प्राप्तुम् इच्छन्ति शक्रो ऽग्निर् वरुणो यमः ।
तेषाम् अन्यतमं देवं पतिं वरय शोभने ॥२३॥
तेषाम् एव प्रभावेन प्रविष्टोऽहम् अलक्षितः।
प्रविशन्तं न मां कश् चिद् अपश्यन् नाय अवारयत ॥२४॥
10एतदर्थम् अहं भने प्रेषितः सुरसत्तमः ।
एतच छुत्वा शुभे बुद्धिं प्रकुरुष्व यथेछसि ॥२५॥
॥ इति नलोपाख्याने तृतीयः सर्गः ॥३॥
बृहदश्व उवाच।
15 प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥१॥
अहं चैव हि यच्चान्यन्ममास्ति वसु किं चन।
तत्सर्वं तव विश्रब्धं कुरु प्रणयमीश्वर ॥२॥
हंसानां वचनं यतु तन्मां दहति पार्थिव ।
त्वत्कृते हि मया वीर राजानः संनिपातिताः ॥३॥
20 यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद ।