This page needs to be proofread.

आकारवन्तः सुश्शक्षणाः पञ्चशीषी इवोरगाः ॥५॥
सुकेशान्तानि चारूणि सुनासाक्षिधुवाणि च ।
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥६॥
दमयन्ती ततो रङ्गं प्रविवेश शुभानना।
5मुष्णन्ती प्रभया राज्ञां चयूंषि च मनांसि च ॥७॥
तस्या गावेषु पतिता तेषां दृष्टिमहात्मनाम् ।
सक्ताभून चचाल च पश्यताम् ॥८॥
ततः संकीर्त्यमानेषु राज्ञां नामसु भारत ।
ददर्श भैमी पुरुषान्यञ्च तुल्याकृतीनथ ॥९॥
10तान्समीक्ष्य ततः सर्वानिर्विशेषाकृतीस्थितान ।
संदेहादय वैदी नाभ्यजानानलं नृपम् ॥१०॥
यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् ।
सा चिन्तयन्ती बुयाथ तर्कयामास भाविनी ॥११॥
कथं हि देवाञानीयां कथं विद्यां नलं नृपम् ॥१२॥
15एवं संचिन्तयन्ती सा वैदी भृशदुःखिता।
श्रुतानि देवलिङ्गानि तर्कयामास भारत ॥१३॥
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे।
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ॥१४॥
सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः ।
20शरणं प्रति देवानां प्राप्तकालममन्यत ॥१५॥
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा।
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् ॥१६॥
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः ।