This page needs to be proofread.

पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥१७॥
वचसा मनसा चैव यथा नाभिचराम्यहम् ।
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ॥१६॥
यथा देवैः स मे भती विहितो निषधाधिपः ।
5तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥१९॥
यथेदं व्रतमारब्धं नलस्याराधने मया।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥२०॥
स्वं चैव रूपं कुर्वन्तु लोकपाला महेश्वराः ।
यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥२१॥
10निशम्य दमयन्यास्तकरुणं परिदेवितम् ।
यथोक्तं चक्रिरे देवाः सामर्थ्य लिङ्गधारणे ॥२२॥
सापश्यविबुधान्सर्वानस्वेदान्स्तब्धलोचनान् ।
हृषितम्रयजोहीनास्थितानस्पृशतः क्षितिम् ॥२३॥
छायाद्वितीयो म्लानसयजःस्वेदसमन्वितः।
15भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ॥२४॥
सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत।
नैषधं वरयामास भैमी धर्मेण पाण्डव ॥२५॥
विलज्जमाना वस्त्रान्ते जयाहायतलोचना।
स्कन्धदेशे ऽसृजतस्य नजं परमशोभनाम् ॥२६॥
20वरयामास चैवैनं पतित्वे वरवर्णिनी।
ततो हा हेति सहसा मुक्तः शब्दो नराधिपः ॥२७॥
देवैर्महर्षिभिस्तत्र साधु साध्विति भारत ।
विस्मितेरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ॥२८॥